अल्बर्ट् ऐन्स्टीन् - विकिसूक्तिः
सामग्री पर जाएँ
विकिसूक्तिः तः
प्रतिदिनं शताधिकवारम् अहं स्मरामि यत् मदीयम् अन्तर्जीवनं बाह्यजीवनञ्च पूर्वजानाम् इदानीन्तनानां जनानां च परिश्रमस्य फलं विद्यते । अतः मया यावत् प्राप्तं प्राप्यमाणञ्च... विद्यते तावता प्रमाणेन एव मया दातव्यम् इति ।
अल्बर्ट् ऐन्स्टीन्
(१४ मार्च्, १८७९ - १८ एप्रिल् १९५५) कश्चन भौतविज्ञानी, जगति अत्यन्तं प्रभावशालिषु विज्ञानिषु अन्यतमः । तदीयः
सापेक्षसिद्धान्तः
अत्यन्तं प्रसिद्धः वर्तते । भौतशास्त्राय तदीयं योगदानं महत् वर्तते ।
द्युतिविद्युत्परिणामस्य
विषये तेन यत् विवरणं प्रस्तुतं तन्निमित्तं नोबेल्प्रशस्तिः प्राप्ता ।
अमृतवचनानि
सम्पाद्यताम्
तृप्तस्य मनुष्यस्य सन्तोषः एतावान् भवति यत् सः कदापि भविष्यतः विषये न चिन्तयति एव ।
तृप्तस्य मनुष्यस्य सन्तोषः एतावन् भवति यत् सः कदापि भविष्यतः विषये न चिन्तयति एव ।
१७ वयसि तेन लिखिते 'मम भावीयोजनाः' इत्यस्मिन् विषये लिखिते प्रबन्धे (१८ सेप्टेम्बर्, १८९६) The Collected Papers of Albert Einstein Vol. 1 (1987) Doc. 22
शरीरस्य घनराशिः तस्मिन् विद्यमानायाः शक्तेः मानं वर्तते ।
उद्धृतम् -
Concepts of Mass in Classical and Modern Physics
by Max Jammer (1961),
p. 177
प्रकृतिः सिंहस्य पृच्छमात्रम् अस्मभ्यं दर्शयति । किन्तु तत्र सिंहः विद्यते इत्यत्र मम लेशमात्रेण अपि संशयः न विद्यते यद्यपि तस्य महतः आयामस्य कारणतः सकृत् सः आत्मानं नेत्रयोः पुरतः प्रस्तोतुं नार्हति ।
Letter to H. Zangger (10 March 1914), quoted in
The Curious History of Relativity
by Jean Eisenstaedt (2006),
p. 126
जन्मना अहमस्मि ज्यू, स्वीस्देशस्य नागरिकः अस्मि । निर्माणेन मानवमात्रः अस्मि । केनापि स्थलेन सह मम नास्ति कोऽपि विशेषानुबन्धः ।
Letter to Alfred Kneser (7 June 1918); Doc. 560 in
The Collected Papers of Albert Einstein
Vol. 8
एतादृशान् अंशान् शिरसि अहं न वहामि यतः ते पुस्तकेषु सुलभतया उपलभ्यन्ते .... महाविद्यालयस्य शिक्षणस्य मौल्यं बहूनाम् अंशानां पठने न विद्यते अपि तु समीचीनतया चिन्तयितुं मनसः शिक्षणे विद्यते ।
एडिसन्-परीक्षायां उक्तानुसारं शब्दस्य वेगविषये यदा पृष्टं तदा अयं प्रतिस्पन्दः दर्शितः - New York Times (18 May 1921); Einstein: His Life and Times (1947) Philipp Frank, p. 185; Einstein, A Life (1996) by Denis Brian, p. 129; "Einstein Due Today" (February 2005) edited by József Illy, Manuscript 25-32 of the Einstein Paper Project; all previous sources as per Einstein His Life and Universe (2007) by Walter Isaacson, p. 299
कश्चन जनः 'अ' जीवने यशस्वी इति चेत्, अ=का + खे + मौ । का - कार्यम्, खे - खेला, मौ - मौनम् ।
उक्तम् - Samuel J Woolf, Berlin, Summer 1929. Cited with additional notes in
The Ultimate Quotable Einstein
by Alice Calaprice and
Freeman Dyson
, Princeton UP (2010) p 230
वस्तुतः उत्तमं सङ्गीतं, पौर्वात्यं पाश्चात्यं वा स्यात्, विश्लेषयितुम् असाध्यम् ।
रवीन्द्रठाकूरेण सह सन्दर्शने - (14 April 1930), published in
The Religion of Man
(1930) by Rabindranath Tagore, p. 222, and in
The Tagore Reader
(1971) edited by Amiya Chakravarty
शान्तिः अनुरोधेन न अपि तु अवगमनमात्रेण प्राप्तुं शक्या । कस्यचित् देशस्य आधीन्यम् आग्रहेण करणीयमिति चेत् तत्रत्यः सर्वः अपि पुरुषः, महिला, बालश्च मारणीयः भवेत् । तादृशं हिंसात्मकं विधानम् अनुसर्तुं यदि न इष्यते तर्हि शस्त्रोपयोगं विना समस्यापरिहारस्य मार्गः अन्वेष्टव्यः ।
भाषणम् - the New History Society (14 December 1930), reprinted in "Militant Pacifism" in
Cosmic Religion
(1931). Also found in
The New Quotable Einstein
by Alice Calaprice, p. 158.
परोपकाराय जीवनमात्रं भवेत् सार्थकं जीवनम् ।
प्रश्नोत्तरम् -
Youth
, a journal of Young Israel of Williamsburg, NY. Quoted in the
New York Times
, June 20, 1932,
pg. 17
मानवप्रकृत्तेः उपरि सस्याहारजीवनशैल्याः भौतिकपरिणामस्य अवलोकनात् मम भासते यत् ततः मानवतायाः उपरि महान् सत्परिणामः भवेदिति ।
पत्रम् - to Harmann Huth, 27 December 1930. Supposedly published in German magazine
Vegetarische Warte
, which existed from 1882 to 1935. Einstein Archive 46-756. Quoted in
The New Quotable Einstein
by Alice Calaprice (2005), p. 281.
अहम् अन्तर्बोधे अन्तःप्रेरणायां च विश्वसिमि । .... कदाचित् अकारणं मम भासते यत् अहं साधुः इति । १९१९ तमस्य वर्षस्य ग्रहणेन मम अन्तर्बोधस्य स्थिरीकरणं यदा जातं तदा नाहम् आश्चर्यान्वितः । यदि तथा न स्यात् तर्हि एव अहं विस्मितः स्याम् ।
कल्पना ज्ञानस्य अपेक्षया मुख्या । ज्ञानं भवति परिमितं किन्तु कल्पना इत्येषा समग्रं जगत् आलिङ्गति, प्रगतिं पोषयति, विकासं जनयति च । वैज्ञानिकसंशोधने अयं भवति अत्यन्तं प्रमुखः अंशः ।
Cosmic Religion : With Other Opinions and Aphorisms
(1931) by Albert Einstein, p. 97; also in
Transformation : Arts, Communication, Environment
(1950) by Harry Holtzman, p. 138. This may be an edited version of some nearly identical quotes from the 1929
Viereck interview
below.
विज्ञानम् इत्येतत् प्रतिदिनस्य चिन्तनस्य संस्कारं विना नान्यत् किञ्चित् ।
"Physics and Reality" in the
Journal of the Franklin Institute
Vol. 221, Issue 3 (March 1936)
" इत्यस्माद् प्रतिप्राप्तम्
वर्गः
विज्ञानिनः
अल्बर्ट् ऐन्स्टीन्
विषयः योज्यताम्
US